|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.93. अध्यायः 093
Mahabharata - Drona Parva - Chapter Topics
अर्जुनेन श्रुतायुःप्रभृतीनां वधः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-93-0x(4499)(48248)
हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे।
जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव॥ 7-93-1(48249)
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः।
अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनञ्जयम्॥ 7-93-2(48250)
तेषां षष्टिशतानन्यान्प्रामथ्नात्पाण्डवः शरैः।
ते स्म भीताः पलायन्ते व्याघ्रात्क्षुद्रमृगा इव॥ 7-93-3(48251)
ते निवृत्ताः पुनः पार्थं सर्वतः पर्यवारयन्।
रणे सपत्नान्निघ्नन्तं जिगीषन्तं परान्युधि॥ 7-93-4(48252)
तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः।
शिरांसि पातयामास बाहूंश्चापि धनञ्जयः॥ 7-93-5(48253)
शिरोभिः पातितैस्तत्र भूमिरासीन्निरन्तरा।
अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रबलैर्युधि॥ 7-93-6(48254)
तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ।
स्रुतायुश्चाश्रुतायुश्च धनञ्जयमयुध्यताम्॥ 7-93-7(48255)
बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ।
तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम्॥ 7-93-8(48256)
त्वरायुक्तौ महराज प्रार्थयानौ महद्यशः।
अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ॥ 7-93-9(48257)
तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम्।
पूरयामासतुः क्रुद्धौ तटाकं जलदौ यथा॥ 7-93-10(48258)
श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनञ्जयम्।
आजघान रथश्रेष्ठः पीतेन निशितेन च॥ 7-93-11(48259)
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः।
जगाम परमं मोहं मोहयन्केशवं रणे॥ 7-93-12(48260)
एतस्मिन्नेव काले तु सोऽश्रुतायुर्महारथः।
शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम्॥ 7-93-13(48261)
क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः।
पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः॥ 7-93-14(48262)
ततः सर्वस्य सैन्यस्य तावकस्य विशाम्पते।
सिंहनादो महानासीद्धतं मत्वा धनञ्जयम्॥ 7-93-15(48263)
कृष्णश्च भृशसन्तप्तो दृष्ट्वा पार्थं विचेतनम्।
आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनञ्जयम्॥ 7-93-16(48264)
ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनञ्जयम्।
वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः॥ 7-93-17(48265)
सचक्रकूबररथं साश्वध्वजपताकिनम्।
अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत्॥ 7-93-18(48266)
प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत।
प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा॥ 7-93-19(48267)
सञ्छन्नं शरजालेन रथं दृष्ट्वा सकेशवम्।
शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ॥ 7-93-20(48268)
प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः।
तस्मादासन्सहस्राणि शराणां नतपर्वणाम्॥ 7-93-21(48269)
ते जघ्नुस्तौ महेष्वासौ ताभ्यां मुक्तांश्च सायकान्।
विचेरुराकाशगताः पार्थचापविनिःसृताः॥ 7-93-22(48270)
प्रतिहत्य सरांस्तूर्णं शरवेगेन पाण्डवः।
प्रतस्थे तत्रतत्रैव योधयन्वै महारथान्॥ 7-93-23(48271)
तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ।
वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ॥ 7-93-24(48272)
श्रुतायुषश्च निधनं वधश्चेवाश्रुतायुषः।
लोकविस्मापनमभूत्समुद्रस्येव शोषणम्॥ 7-93-25(48273)
तयोः पदानुगान्हत्वा पुनः पञ्चशतं रथान्।
प्रत्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान्॥ 7-93-26(48274)
श्रुतायुषं च निहतं प्रेक्ष्य चैवाश्रुतायुषम्।
नियतायुश्च सङ्क्रुद्धो दीर्घायुश्चैव भारत॥ 7-93-27(48275)
पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रति जग्मतुः।
किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ॥ 7-93-28(48276)
तावर्जुनो मुहूर्तेन शरैः सन्नतपर्वभिः।
प्रैषयत्परमक्रुद्धो यमस्य सदनं प्रति॥ 7-93-29(48277)
लोडयन्तमनीकानि द्विपं पद्मसरो यथा।
नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुङ्गवाः॥ 7-93-30(48278)
अङ्गास्तु गजसङ्घैश्च पाण्डवं पर्यवारयन्।
क्रुद्धाः सहस्रशो राजञ्शिक्षिता हस्तिसादिनः॥ 7-93-31(48279)
दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः।
प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः॥ 7-93-32(48280)
तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः।
निचकर्त शिरांस्युग्रो बाहूनपि सुभूषणान्॥ 7-93-33(48281)
तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः।
बभौ कनकपाषाणा भुजगैरिव संवृता॥ 7-93-34(48282)
बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च।
पतमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः॥ 7-93-35(48283)
शरैः सहस्रशो विद्धा द्विपाः प्रसृतशोणिताः।
अदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव॥ 7-93-36(48284)
निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः।
गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः॥ 7-93-37(48285)
नानावेषधरा राजन्नानाशस्त्रौघसंवृताः।
रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः॥ 7-93-38(48286)
शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः।
सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः॥ 7-93-39(48287)
चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः।
भृशं त्रस्ताश्च बहवः स्वानेव ममृदुर्गजाः॥ 7-93-40(48288)
सोत्तरायुधिनश्चैव द्विपास्तीक्ष्णविषोपमाः।
विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः॥ 7-93-41(48289)
यवनाः पारदाश्चैव शकाश्च सह बाह्लिकैः।
काकवर्णा दुराचाराः स्त्रीलोलाः कलहप्रियाः॥ 7-93-42(48290)
द्राविडास्तत्र युध्यन्ते मत्तमातङ्गविक्रमाः।
गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः॥ 7-93-43(48291)
दार्वातिसारा दरदाः पुण्ड्राश्चैव सहस्रशः।
ते न शक्याः स्म सङ्ख्यातुं व्राताः शतसहस्रशः॥ 7-93-44(48292)
अभ्यवर्षन्त ते सर्वे पाण्डवं निशितैः शरैः।
अवाकिरंश्च ते म्लेच्छा नानायुद्धविशारदाः॥ 7-93-45(48293)
तेषामपि ससर्जाशु शरवृष्टिं धनञ्जयः।
सृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः॥ 7-93-46(48294)
अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनञ्जयः।
मुण्डार्धमुण्डाञ्जटिलानशुचीञ्जटिलाननान्।
म्लेच्छानशातयत्सर्वान्समेतानस्त्रतेजसा॥ 7-93-47(48295)
शरैश्च शतशो विद्धास्ते सङ्घा गिरिचारिणः।
प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः॥ 7-93-48(48296)
गजाश्वसादिम्लेच्छानां पतितानां शितैः शरैः।
बकाः कङ्का वृका भूमावपिबन्रुधिरं मुदा॥ 7-93-49(48297)
पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसङ्क्रमाम्।
शरवर्षप्लवां घोरां केशशैवलशाद्वलाम्।
प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम्॥ 7-93-50(48298)
छिन्नाङ्गुलीक्षुद्रमत्स्यां युगान्ते कालसन्निभाम्।
प्राकरोद्गजसम्बाधां नदीमुत्तरशोणिताम्॥ 7-93-51(48299)
देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम्।
यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे।
तथाऽऽसीत्पृथिवी सर्वा शोणितेन परिप्लुता॥ 7-93-52(48300)
षट्सहस्रान्हयान्वीरान्पुनर्दशशतान्वरान्।
प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः॥ 7-93-53(48301)
शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः।
शेरते भूमिमासाद्य शैला वज्रहता इव॥ 7-93-54(48302)
स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः।
प्रभिन्न इव मातङ्गो मृद्गन्नलवनं यथा॥ 7-93-55(48303)
भुरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम्।
निर्दहेदनलोऽरण्यं यथा वायुसमीरितः॥ 7-93-56(48304)
सेनारण्यं तव तथा कृष्णानिलसमीरितः।
शरार्चिरदहत्क्रुद्धः पाण्डवोऽग्निर्धनञ्जयः॥ 7-93-57(48305)
शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम्।
प्रानृत्यदिव सम्बाधे चापहस्तो धनञ्जयः।
वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम्॥ 7-93-58(48306)
`ततः प्रावर्तत नदी शोणितौघतरङ्गिणी।
नराश्वद्विपकायेभ्यः पर्वतेभ्य इवापगा॥ 7-93-59(48307)
अस्थिशर्करसम्बाधा ध्वजवृक्षा रथहदा।
सञ्छिन्नशीर्षपाणाणा हस्तिहस्तमहाग्रहा॥ 7-93-60(48308)
मांसमज्जास्थिपङ्काढ्यां हताश्वमकराकुला।
उष्णीषफेनसञ्छन्ना शरघोरझषाकुला॥ 7-93-61(48309)
रुद्रस्याक्रीडसदृशीं भूमिं कुर्वन्विभीषणाम्'।
प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जयः॥ 7-93-62(48310)
तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत्॥ 7-93-63(48311)
तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः।
न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष।
धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे॥ 7-93-64(48312)
अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः।
आससाद रणे पार्थं केशवं च महारथम्॥ 7-93-65(48313)
ततः सम्प्रहरन्वीरो गदामुद्यम्य भारत।
रथमावार्य गदया केशवं समताडयत्॥ 7-93-66(48314)
गदया ताडितं दृष्ट्वा केशवं परवीरहा।
अर्जुनोऽथ भृशं क्रुद्धः सोऽम्बष्ठं प्रति भारत॥ 7-93-67(48315)
ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम्।
छादयामास समरे मेघः सूर्यमिवोदितम्॥ 7-93-68(48316)
अथापरैः शरैश्चापि गदां तस्य महात्मनः।
अचूर्णयत्तदा पार्थस्तिदद्भुतमिवाभवत्॥ 7-93-69(48317)
अथ तां पतितां दृष्ट्वा गृह्यान्यां च महागदाम्।
अर्जुनं वासुदेवं च पुनः पुनरताडयत्॥ 7-93-70(48318)
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ।
चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा॥ 7-93-71(48319)
स पपात हतो राजन्वसुधामनुनादयन्।
इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः॥ 7-93-72(48320)
अम्बष्ठे तु तदा भग्ने तव सैन्यमभज्यत॥ 7-93-73(48321)
रथानीकावगाढश्च वारणाश्वशतैर्वृतः।
अदृश्यत पदा पार्थो घनैः सूर्य इवावृतः॥ 7-93-74(48322)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्धशदिवसयुद्धे त्रिनवतितमोऽध्यायः॥ 93 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-93-43 गोयोनिप्रभवा नन्दिन्यां जाताः॥ 5-93-46 सृष्टिः संसृष्टिः॥ 5-93-47 जटिलाननान् जटिलानि रूढश्मश्रूण्याननानि येषाम्॥ 5-93-50 प्रच्छन्नेन प्रच्छादनेन कृतो रचितः सङ्कमो यस्याम्॥ 5-93-51 उत्तरशोणित्तां शोणितप्रधानाम्॥ 5-93-53 हयान् अश्वारोहान्॥ 5-93-93 त्रिनवतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|